हरिः ॐ आ नो᳚ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतासऽउ॒द्भिदः॑ ।
दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे अस॒न्नप्रा᳚युवो रक्षि॒तारो᳚ दि॒वेदि॑वे ॥
दे॒वानां᳚म्भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां᳚ ᳪ रा॒तिर॒भि नो॒ निव॑र्तताम् ।
दे॒वानां᳚ ᳪ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्रति॑रन्तु जी॒वसे॑ ॥
तान्पूर्व॑या नि॒विदा᳚ हूमहे व॒यं भगं᳚म्मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिधम्᳚ ।
अ॒र्य॒मणं॒ वरु॑णं॒ ᳪ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥
तन्नो॒ वातो᳚ मयो॒भुवा᳚तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
तद्ग्रावा᳚णः सोम॒सुतो᳚ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥
तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ॥
स्व॒स्ति न॒ इन्द्रो᳚ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे᳚दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म॑यः ।
अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे᳚ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥
भ॒द्रं कर्णे᳚भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वा ᳪ स॑स्त॒नूभि॒र्व्य॑शेमहि दे॒वहि॑तं॒ यदायुः॑ ॥
श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा᳚ नश्च॒क्रा ज॒रसं᳚न्त॒नूना᳚म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव᳚न्ति॒ मा नो᳚ म॒ध्या री᳚रिष॒तायु॒र्गन्तोः᳚ ॥
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे᳚ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
द्यौः शान्ति॑र॒न्तरि॑क्ष॒ ᳪ शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोषध॑यः॒ शान्तिः॑।
वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्व॒ ᳪ शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि ॥
यतो यत: समीहसे ततो नो अभयं कुरु ।
शं न: कुरु प्रजाभ्यो भयं न: पशुभ्य: ॥ सुशान्तिर्भवतु ॥